मंगलवार, 29 मार्च 2022

339-प्रसिद्धसाहित्यिकविदुषी डा.कविताभट्टशैलपुत्री सम्मानिता अभवत्

 पोर्ट्ल देखने के लिए नीचे दिए गए-डॉ. कविता भट्ट 'शैलपुत्री' सम्मानित लिन्क को भी क्लिक कर सकते हैं

डॉ. कविता भट्ट 'शैलपुत्री' सम्मानित



संस्कृत समाचार:- कण्नगरीकोटद्वार-उत्तराखण्ड । साहित्यसृजनकार्ये व्याख्याने मार्गदर्शने च सर्वोत्कृष्टप्रदर्शनाय “अखिलभारतीय-उत्तराखण्डमहासभा”भारतद्वारा प्रसिद्धसाहित्यिकविदुषी डा.कविताभट्टशैलपुत्री सम्मानिता अभवत् ।कण्वनगर्या: समीपस्थमोटाढाकस्थले बिजनौरजनपदे उत्तरप्रदेशे भव्यसम्मानसमारोह: समायोजित: जात: । महानस्वतंत्रतासंग्रामसेनानी-दयालसिंह- असवालस्य 2022 स्मृतिसम्माने अयं कार्यक्रम: प्रारम्भ: अभवत् । डा.शैलपुत्री बहुत्र बहुसंस्थाभि: साहित्यिकयोगदाने सम्मानिता अस्ति च सा बहूनां संस्थानां मार्गदर्शकरूपेण उत्तरदायित्वम् अपि निर्वहति । वर्तमानसमये हेमवतीनन्दनकेन्द्रीयगढवाल-विश्वविद्यालये प्रशासनिके फैकल्टी डेवलपमेन्ट सेन्टर इत्यत्र विशिष्ट-उत्तरदायित्वे विद्यते ।

सामाजिकसमर्पणाय संयोजनाय महोदयया
श्रद्धेयगुरुदेवश्रीजनार्दनबुड़ाकोटीवर्यस्य कृते च आदरणीय-श्रीमनमोहनदुधपुड़ीवर्यस्य कृते भावाञ्जलिना साधुवाद: प्रकटित:। सहैव जिलाधिकारीवर्यस्य उपजिलाधिकारी- महोदयस्य बिजनौरस्य अपि हार्दिक-आभारं ज्ञापितं । अथ च तया प्रोक्तं यत् शतसंख्याषु उपस्थिता: कोटद्वारपौड़ीगढ़वालस्य च बिजनौरक्षेत्रस्य संभ्रांतनागरिकान् (मातृ-पितृ शक्तिं) प्रति कार्तज्ञभावमर्पयामि यै: वृहदायोजने असीमिता-आत्मीयता प्रदत्ता च मया सहैव विविधक्षेत्रेषु विशिष्टयोगदानं प्रदत्तं । सर्वे सम्मानितात्मीया: भगिनी-बान्धवा: धन्यवादर्हा: सन्ति ।

अवसरेस्मिन् मातृभि: भगिनीभिश्च उत्तराखंडसहितं भारतीय संस्कृतिं च समाजाधारितं उत्कृष्ट-शैक्षिकं सांस्कृतिक-कार्यक्रमं च सम्माने प्रस्तुतीकृतं । तेषाम्मंगलभावनामपि शैलपुत्रीद्वारा अभिनन्दनेन व्याहृतं ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें